|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.208. अध्यायः 208
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरंप्रति पतिव्रतामाहात्म्यकथनारम्भः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-208-0x(2469)(24105)
ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम्।
प्रपच्छ भरतश्रेष्ठ धर्मप्रश्नं स दुर्वचम् ॥ 3-208-1(24106)
श्रोतुमिच्छामि भगवन्स्त्रीणां माहातम्यमुत्तमम्।
कथ्यमानं त्वया विप्र सूक्ष्मं धर्म्यं च तत्त्वतः ॥ 3-208-2(24107)
प्रत्यक्षमिह विप्रर्षे देवा दृश्यन्ति सत्तम।
सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च ॥ 3-208-3(24108)
पिता माता च भगवान्गाव एव च सत्तम।
यच्चान्यदेव विहितं तच्चापि भृगुनन्दन ॥ 3-208-4(24109)
मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः।
पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे।
पतिव्रतानां महात्म्यं वक्तुमर्हसि नः प्रभो ॥ 3-208-5(24110)
निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ।
पतिं दैवतवच्चापि चिन्तयन्त्य स्थिता हि या ॥ 3-208-6(24111)
भगवन्दुष्करं त्वेतत्प्रतिभाति मम प्रभो।
मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विज ॥ 3-208-7(24112)
स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम्।
साध्वाचाराः स्त्रियो ब्र्हमन्कुर्वन्तीह सदादृताः ॥ 3-208-8(24113)
दुष्करं खलु कुर्वन्ति पितरो मातरश्च वै।
एकपत्न्यश्च या नार्यो याश् सत्यं वदन्त्युत ॥ 3-208-9(24114)
कुक्षिणा दशमासांश्च गर्भं संधारयन्ति याः।
नार्यः कालेन संबूय किमद्भुततरं ततः ॥ 3-208-10(24115)
संशयं परमं प्राप्य वेदनामतुलामपि।
प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो ॥ 3-208-11(24116)
पुष्णन्ति चापि महता स्नेहेन द्विजपुङ्गव।
`चिन्तयन्ति ततश्चापि किंशीलोऽयंभविष्यति' ॥ 3-208-12(24117)
याश्च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः।
स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् ॥ 3-208-13(24118)
क्षत्रधर्मसमाचारतत्त्वं व्याख्याहि मे द्विज।
धर्मः सुदुर्लभो विप्र नृशंसेन महात्मना ॥ 3-208-14(24119)
एतदिच्छामि भगवन्प्रश्नं प्रश्नविदांवर।
श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत ॥ 3-208-15(24120)
मार्कण्डेय उवाच। 3-208-16x(2470)
हन्त तेऽहं समाख्यास्ये प्रश्नमेतं सुदुर्वचम्।
तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे ॥ 3-208-16(24121)
मातरंश्रेयसीं तात पितृनन्ये तु मेनिरे।
दुष्करं कुरुते माता विवर्धयति या प्रजाः ॥ 3-208-17(24122)
तपसा देवतेज्याभिर्वन्दनेन तितिक्षया।
सुप्रशस्तैरुपायैश्चापीहन्ते पितरः सुतान् ॥ 3-208-18(24123)
एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम्।
चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति ॥ 3-208-19(24124)
आशंसते हि पुत्रेषु पिता माता च भारत।
यशः कीर्तिमथैश्वर्यं तेजो धर्मं तथैव च ॥ 3-208-20(24125)
`मातुः पितुश्च राजेन्द्र सततं हितकारिंणोः'।
तयोराशां तु सफलां यः करोति स धर्मवित् ॥ 3-208-21(24126)
पिता माता च राजेन्द्र तुष्यतो यस् नित्यशः।
इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्र शाश्वतः ॥ 3-208-22(24127)
नैव यज्ञक्रियाः काश्चिन्न श्राद्धं नोपवासकम्।
या तु भर्तरि शुश्रूषा तया स्वर्गं जयत्युत ॥ 3-208-23(24128)
एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर।
पतिव्रतानां नियतं धर्मं चावाहितः शृणु ॥ 3-208-24(24129)
इति श्रीमन्महाबारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वयणि अष्टाधिकद्विशततमोऽध्यायः ॥ 208 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-208-13 ये चक्रूरेषु इति झ. पाठः ॥ 3-208-20 प्रजाधर्मं इति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|